गवयो वानरस्तत्र वानरां स्तानुवाच ह। त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः।।4.65.4।। शरभस्तानुवाचाथ वानरान् वानरर्षभः। चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः।।4.65.5।। वानरस्तु महातेजा अब्रवीद्गन्धमादनः। योजनानां गमिष्यामि पञ्चाशत्तु न संशयः।।4.65.6।। मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह। योजनानां परं षष्टिमहं प्लवितुमुत्सहे।।4.65.7।। ततस्तत्र महातेजा द्विविदः प्रत्यभाषत। गमिष्यामि न सन्देहस्सप्ततिं योजनान्यहम्।।4.65.8।। सुषेणस्तु महातेजा:प्रोक्तवान्हरिसत्तमान्। अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः।।4.65.9।।
gavayo vānarastatra vānarāṃ stānuvāca ha| triṃśatṃ tu gamiṣyāmi yojanānāṃ plavaṅgamāḥ||4.65.4|| śarabhastānuvācātha vānarān vānararṣabhḥ| catvāriṃśadgamiṣyāmi yojanānāṃ plavaṅgamāḥ||4.65.5|| vānarastu mahātejā abravīdgandhamādanḥ| yojanānāṃ gamiṣyāmi pañcāśattu na sṃśayḥ||4.65.6|| maindastu vānarastatra vānarāṃstānuvāca ha| yojanānāṃ parṃ ṣaṣṭimahṃ plavitumutsahe||4.65.7|| tatastatra mahātejā dvividḥ pratyabhāṣata| gamiṣyāmi na sandehassaptatiṃ yojanānyaham||4.65.8|| suṣeṇastu mahātejā:proktavānharisattamān| aśītiṃ yojanānāṃ tu plaveyṃ plavageśvarāḥ||4.65.9||
Translation
तत्र there, गवयो Gava, वानरः monkeys, तान् वानरान् the monkeys, उवाच ह said like that, प्लवङ्गमाः O leaping monkeys, योजनानाम् yojanas, त्रिंशतम् thirty, गमिष्यामि I can reach, तत्र there, शरभः Sarabha, वानरर्षभ great monkey, तान् वानरान् those monkeys, उवाच ह said, योजनानाम् yojanas, चत्वारिंशत् forty, गमिष्यामि can reach, संशयः doubt, न without, महातेजाः bright, गन्धमादनः Ghandamadana, वानरान् monkeys, अब्रवीत् said, योजनानाम् yojanas, पञ्चाशत् fifty, गमिष्यामि I can go, संशयः doubt, न no, तत्र there, मैन्दः Mainda, वानरस्तु to the monkeys, तान् वानरान् those monkeys, उवाच ह said, अहम् I, योजनानाम् of yojanas, षष्टिं परम् more than sixty, प्लवितुम् to leap, उत्सहे I am enthusiastic, ततः then, महातेजाः highly brilliant, द्विविदः Dvivida, तत्र there, प्रत्यभाषत in turn spoke, अहम् I, सप्तति: seventy, योजनानि yojanas, गमिष्यामि I can go, सन्देहः doubt, न not, महातेजाः brilliant, सत्त्ववान् strong, सुषेणः Sushena, कपिसत्तमः best among the monkeys, अहम् I, पराक्रमे capability, योजनानाम् of yojanas, अशीतिम् eighty, प्लवेयं I can leap.